|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.112. अध्यायः 112
Mahabharata - Vana Parva - Chapter Topics
विभाण्डकस्यासन्निधाने तदाश्रमं प्रविष्टया वेश्यायुवत्या विलासै र्ऋश्यशृङ्गं प्रलोभ्य पुनः स्वावासगमनम् ॥ 1 ॥ आगतेन विभाण्डकेन वेश्याविलासमुग्धचेतसं सुतंप्रति मोहकारणप्रश्नः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-112-0x(2066)(20378)
सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये।
संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत ॥ 3-112-1(20379)
नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितैः।
नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः ॥ 3-112-2(20380)
अतीव रमणीयं तदतीव च मनोहरम्।
चक्रे नाव्याश्रमं रम्यमद्भुतोपमदेर्शनम् ॥ 3-112-3(20381)
ततो निवध्य सा नावमदूरे काश्यपाश्रमात्।
चारयामास पुरुषैर्विहारं तस्य वै मुनेः ॥ 3-112-4(20382)
ततो दुहितरं वेश्यां समाधायेतिकार्यताम्।
दृष्ट्वाऽन्तरं काशय्पस्य प्राहिणोद्बुद्धिसंमताम् ॥ 3-112-5(20383)
सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ।
आश्रमं तं समासाद्य ददर्श तमृषेः सुतम् ॥ 3-112-6(20384)
वेश्योवाच। 3-112-7x(2067)
कच्चिन्मुने कुशलं तापसानां
कच्चिच्च वो मूलफलं प्रभूतम्।
कच्चिद्भवान्रमते चाश्रेऽस्मिं-
स्त्वां वै द्रष्टुं सांप्रतमागतास्मि ॥ 3-112-7(20385)
कच्चित्तपो वर्धते तापसानां
पिता च ते कच्चिदहीनतेजाः।
कच्चित्त्वया प्रीयतेचैव विप्र
कच्चित्स्वाध्यायः क्रियते चर्श्यशृङ्गः ॥ 3-112-8(20386)
ऋश्यशृङ्ग उवाच। 3-112-9x(2068)
ऋद्ध्या भवाञ्ज्योतिरिव प्रकाशते
मन्ये चाहं त्वामभिवादनीयम्।
पाद्यं वै ते संप्रदास्यामि कामा-
द्यथाधर्मं फलमूलानि चैव ॥ 3-112-9(20387)
कौश्यां बृस्यामास्स्व यथोपजोषं
कृष्णाजिनेनावृतायां सुखाय।
क्व चाश्रमस्तव किं नाम चेदं
व्रतंब्रह्मंश्चरसि हि देववत्त्वम् ॥ 3-112-10(20388)
वेश्योवाच। 3-112-11x(2069)
ममाश्रमः काश्यपपुत्र रम्य-
स्त्रियोजनं शैलमिमं परेण।
तत्रस्वधर्मोऽनभिवादनं नो
न चोदकं पाद्यमुपस्पृशामः ॥ 3-112-11(20389)
भवता नाभिवाद्योऽहमभिवाद्यो भवान्मया।
व्रतमेतादृशं ब्रह्मन्परिष्वज्यो भवान्मया ॥ 3-112-12(20390)
ऋश्यशृङ्ग उवाच। 3-112-13x(2070)
फलानि पक्वानि ददानि तेऽहं
भल्लातकान्यामलकानि चैव।
करूषकानीङ्गुदधन्वनानि
प्रियालानां काङ्क्षितं वै कुरुष्व ॥ 3-112-13(20391)
लोमश उवाच। 3-112-14x(2071)
सा तानि सर्वाणि विसर्जयित्वा
भक्ष्याण्यनर्हाणि ददौ ततोऽस्मै।
तान्यृश्यशृङ्गाय महारसानि
भृशं सुरूपाणि च मोदकानि ॥ 3-112-14(20392)
ददौ च माल्यानि सुगन्धवन्ति
चित्राणि वासांसि च भानुमन्ति।
पेयानि चाग्र्याणि ततो मुमोद
चिक्रीड चैव प्रजहास चैव ॥ 3-112-15(20393)
सा कन्दुकेनारमतास्य मूले
विभज्यमाना फलिता लतेव।
गात्रैश्च गात्राणि निषेवमाणा
समाश्लिषच्चासकृदृश्यशृङ्गम् ॥ 3-112-16(20394)
सर्जानशोकांस्तिलकांश्च वृक्षा-
न्सुपुष्पितानवनाम्यावभज्य।
विलज्जमानेव मदाभिभूता
प्रोभयामास सुतं महर्षेः ॥ 3-112-17(20395)
अथर्श्यशृङ्गं विकृतंसमीक्ष्य
पुनः पुनः पीञ्य च कायमस्य।
अवेक्ष्यमाणा शनकैर्जगाम
कृत्वाऽग्निहोत्रस्य तदाऽपदेशम् ॥ 3-112-18(20396)
तस्यां गतायां मदनेन मत्तो
विचेतनश्चाभवदृश्यशृङ्गः।
तामेव भावेन गतेन शून्ये
विनिःश्वसन्नार्तरूपो बभूव ॥ 3-112-19(20397)
ततो मुहूर्ताद्धरिपिङ्गलाक्षः
प्रवेष्टितो रोमभिरानखाग्रात्।
स्वाध्यायवान्वृत्तसमाधियुक्तो
विभाण्डकः काश्यपः प्रादुरासीत् ॥ 3-112-20(20398)
सोऽपश्यदासीनमुपेत्य पुत्रं
ध्यायन्तमेकं विपरीतचित्तम्।
विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं
विभाण़्कः पुत्रमुवाच दीनम् ॥ 3-112-21(20399)
न कल्पिताः समिधः किंनु तात
कच्चिद्धुतं चाग्निहोऽत्रं त्वयाऽद्य।
`न संसृष्टं क्रियते द्वारभागे
सुवृक्षाणा खण्डने कः प्रवृत्तः' ॥ 3-112-22(20400)
सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः
कच्चित्सवत्साद्यकृता त्वया च।
`कोप्यागतः शुश्रूषणायेह पुत्र
कुतश्चित्रं माल्यमिदं प्रवृद्धम्' ॥ 3-112-23(20401)
न वै यथापूर्वमिवासि पुत्र
चिन्तापरश्चासि विचेतनश्च।
दीनोतिमात्रं किमिवाद्य खिन्नः
पृच्छामि त्वां क इहाद्यागतोऽभूत् ॥ 3-112-24(20402)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-112-1 सा तु नार्याश्रमं चक्रे इति क. ध.पाठः। नाव्याश्रमं नावा तार्यमाश्रमम् ॥ 3-112-4 मुनेर्विभाण्डकस्य विहारं बहिर्गमनं चारयामास चारैरधिगतवती ॥ 3-112-5 समाधाय बोधयित्वा। इतिकार्यातां इतिकर्तव्यताम्। अन्तरं असान्निध्यम् ॥ 3-112-10 कौश्यां बृस्यामास्व कुशासने उपविश। यथोपजोषं यथासुखम् ॥ 3-112-14 अनर्हाणि अमूल्यानि ॥ 3-112-16 मूले समीपे। विभज्यमाना अङ्गमोटनादीनि कुर्वाणा ॥ 3-112-18 कायं देहं पीड्य आलिङ्ग्येत्यर्थः। अपदेशं छलम् ॥ 3-112-19 भावेनाभिप्राये ॥ 3-112-20 प्रवेष्टितो व्याप्तः ॥ 3-112-23 निर्णिक्तं प्रक्षालितम्। सवत्सा कृता। दोहनायेति शेषः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|